(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharat Part 4 | Virat Parva | महाभारत | विराट पर्व


॥ श्रीः ॥
4.76. अध्यायः 076
Mahabharata - Virata Parva - Chapter Topics
उत्तरेण विराटंप्रति युधिष्ठिरादिकृतोपकारस्मारणपूर्वकमुत्तरायाः प्रदानेन तत्प्रसादनचोदना ॥ 1 ॥ युधिष्ठिरेणोत्तराया पुरस्कारेण सप्रणामं प्रसादयते विराटायाभयप्रदानम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text

वैशम्पायन उवाच। 4-76-0x(3307)(31574)
विराटस्य वचः श्रुत्वा पार्थिवस्य महात्मनः।
उत्तरः प्रत्युवाचेदमभिपन्नो युधिष्ठिरे ॥ 4-76-1(31575)
प्रसादनं प्राप्तकालं पाण्डवस्याभिरोचये।
तेजस्वी बलवाञ्शूरो राजराजेश्वरः प्रभुः ॥ 4-76-2(31576)
उत्तरां च स्वसारं मे पार्थस्यामित्रकर्शन।
प्रणिपत्य प्रयच्छामस्ततः शिष्टा भवामहे। 4-76-3(31577)
वयं च सर्वे सामात्याः कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसाद्याभ्युपतिष्ठामो राजन्किं करवागहे ॥ 4-76-4(31578)
राजंस्त्वमसि संग्रामे गृहीतस्तेन मोक्षितः ।
एतेषां बाहुवीर्येण गावश्च विजितास्त्वया ॥ 4-76-5(31579)
कुरवो निर्जिता यस्मात्संग्रामेऽमिततेजसः ।
एष तत्सर्वमकरोत्कुन्तीपुत्रो युधिष्ठिरः ॥ 4-76-6(31580)
अर्च्याः पूज्याश्च मान्याश्च प्रत्युत्थेयाश्च पाण्डवाः।
अर्वार्हाश्चाभिवाद्याश्च प्राप्तकालं च मे मतम् ॥ 4-76-7(31581)
पूज्यतां पूजनीयाश्च महाभागाश्च पाण्डवाः।
न ह्येते कुपिता शेषं कुर्युराशीविषोपमाः ॥ 4-76-8(31582)
तस्माच्छीघ्रं प्रपद्येम कुन्तीपुत्रं युधिष्ठिरम् ।
प्रसादयाम्यहं तत्र सह पार्थेर्महात्मभिः ॥ 4-76-9(31583)
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः ।
जानाम्यहमिदं सर्वमेषां तु बलपौरुषम् ।
कुले च जन्म महति फल्गुनस्य च विक्रमम् ॥ 4-76-10(31584)
वैशम्पायन उवाच। 4-75-11x(3308)
उत्तरात्पाण्डवाञ्श्रुत्वा विराटो रिपुसूदनः।
उत्तरं चापि संप्रेक्ष्य प्राप्तकालमचिन्तयत् ॥ 4-76-11(31585)
ततो विराटः सामात्यः सहपुत्रः सबान्धवः।
उत्तरामग्रतः कृत्वा शिरःस्नातां कृताञ्जलिः।
भूमौ निपतितस्तूर्णं पाण्डवस्य समीपतः ॥ 4-76-12(31586)
विराट उवाच। 4-76-13x(3309)
प्रसीदतु महाराजो धर्मपुत्रो युधिष्ठिरः।
प्रच्छन्नरूपवेषत्वान्नाग्निर्दृष्टस्तृणैर्वृतः ॥ 4-76-13(31587)
शिरसाऽभिप्रपन्नोस्मि सपुत्रपरिचारकः ॥ 4-76-14(31588)
यदस्माभिरजानद्भिरधिक्षिप्तो महीपतिः ।
अवमत्य कृतं सर्वमज्ञानात्प्राकृते यथा।
क्षन्तुमर्हसि तत्सर्वं धर्मज्ञो धर्मवत्सल ॥ 4-76-15(31589)
यदिदं मामकं राष्ट्रं पुरं राज्यं च पार्थिव ।
सदण्डकोशं विसृजे तव वश्योस्मि पार्थिव ।
वयं च सर्वे सामात्या भवन्तं शरणं गताः ॥ 4-76-16(31590)
वैशम्पायन उवाच। 4-76-17x(3310)
तं धर्मराजः पतितं महीतले
सबन्धुवर्गं प्रसमीक्ष्य पार्थिवम् ।
उवाच वाक्यं परलोकदर्शनः
प्रनष्टमन्युर्गतशोकमत्सरः॥ 4-76-17(31591)
न मे भयं पार्थिव विद्यते मयि
प्रतीतरूपोस्म्यनुचिन्त्य मानसम्।
एतत्त्वया सम्यगिहोपपादितं
द्विजैरमात्यैः सदृशैश्च पाण्डितैः ।
इमां च कन्यां समलंकृतां भृशं
समीक्ष्य तुष्टोस्मि नरेन्द्रसत्तम ॥ 4-76-18(31592)
क्षान्तमेतन्महाबाहो यन्मां वदसि पार्थिव।
न चैव किंचित्पश्यामि विकृतं ते नराधिप ॥ 4-76-19(31593)
वैशम्पायन उवाच। 4-76-20x(3311)
ततो विराटः परमामितुष्टः
समेत्य राज्ञा समयं चकार।
राज्यं च सर्वं विससर्ज तस्मै
सदण्डकोशं सपुरं महात्मा ॥ ॥ 4-76-20(31594)

इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि षट्सप्ततितमोऽध्यायः ॥

Mahabharata - Virata Parva - Chapter Footnotes
4-76-1 अभिपन्नोऽपराधं कृतवान् ॥ 1 ॥ 4-76-3 ततस्तुष्टा भवन्तु ते इति थo पाठः ॥ 3 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.